(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.67. अध्यायः 067
Mahabharata - Adi Parva - Chapter Topics
ऋष्यादिवंशकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-67-0x(323)(2873)
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः॥ 1-67-1(2874)
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः।
अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः॥ 1-67-2(2875)
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः॥ 1-67-3(2876)
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः॥ 1-67-4(2877)
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः॥ 1-67-5(2878)
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः॥ 1-67-6(2879)
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः॥ 1-67-7(2880)
पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः।
सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा॥ 1-67-8(2881)
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः॥ 1-67-9(2882)
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः॥ 1-67-10(2883)
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥ 1-67-11(2884)
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः॥ 1-67-12(2885)
ददौ स दश धर्माय सप्तविंशतिमिन्दवे।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश॥ 1-67-13(2886)
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा॥ 1-67-14(2887)
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा॥ 1-67-15(2888)
सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः।
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः॥ 1-67-16(2889)
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः।
पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः।
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्॥ 1-67-17(2890)
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः॥ 1-67-18(2891)
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा॥ 1-67-19(2892)
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ॥ 1-67-20(2893)
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा।
`आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा'।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः॥ 1-67-21(2894)
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा॥ 1-67-22(2895)
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः॥ 1-67-23(2896)
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः।
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः॥ 1-67-24(2897)
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥ 1-67-25(2898)
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम्।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी॥ 1-67-26(2899)
योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह॥ 1-67-27(2900)
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः॥ 1-67-28(2901)
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः।
यो दिव्यानि विमानानि त्रिदशानां चकारह॥ 1-67-29(2902)
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्॥ 1-67-30(2903)
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः॥ 1-67-31(2904)
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः॥ 1-67-32(2905)
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः॥ 1-67-33(2906)
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः॥ 1-67-34(2907)
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी।
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ॥ 1-67-35(2908)
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः॥ 1-67-36(2909)
त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान्॥ 1-67-37(2910)
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च॥ 1-67-38(2911)
वैनतेयस्तु गरुडो बलवानरुणस्तथा।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते॥ 1-67-39(2912)
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः॥ 1-67-40(2913)
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः॥ 1-67-41(2914)
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः।
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये।
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति॥ 1-67-42(2915)
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः।
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः॥ 1-67-43(2916)
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्॥ 1-67-44(2917)
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत॥ 1-67-45(2918)
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः॥ 1-67-46(2919)
महातेजा महावीर्यो बाल एव गुणैर्युतः।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्॥ 1-67-47(2920)
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः।
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी॥ 1-67-48(2921)
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः॥ 1-67-49(2922)
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्।
लोके धाता विधाता च यौ स्थितौ मनुना सह॥ 1-67-50(2923)
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः॥ 1-67-51(2924)
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्॥ 1-67-52(2925)
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्।
अधर्मस्तत्र संजातः सर्वभूतविनाशकः॥ 1-67-53(2926)
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा॥ 1-67-54(2927)
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः॥ 1-67-55(2928)
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः॥ 1-67-56(2929)
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत।
भासी भासानजनयद्गृध्रांश्चैव जनाधिप॥ 1-67-57(2930)
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु॥ 1-67-58(2931)
शुकी च जनयामास शुकानेव यशस्विनी।
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता॥ 1-67-59(2932)
नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः।
मृगी च मृगमन्दा च हरी भद्रमना अपि॥ 1-67-60(2933)
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च।
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी॥ 1-67-61(2934)
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप॥ 1-67-62(2935)
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्।
ऐरावतः सुतस्तस्या देवनागो महागजः॥ 1-67-63(2936)
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः।
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते॥ 1-67-64(2937)
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः।
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः॥ 1-67-65(2938)
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप।
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम्॥ 1-67-66(2939)
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत।
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी॥ 1-67-67(2940)
विमलामपि भद्रं ते अनलामपि भारत।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः॥ 1-67-68(2941)
`इरायाः कन्यका जातास्तिस्रः कमललोचनाः।
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः॥ 1-67-69(2942)
लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः।
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक्॥ 1-67-70(2943)
लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन्।
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः॥ 1-67-71(2944)
लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः।
वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते॥ 1-67-72(2945)
सप्तपिम्डफलान्वृक्षाननलापि व्यजायत॥ 1-67-73(2946)
अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ॥ 1-67-74(2947)
संपातिं जनयामास वीर्यवन्तं जटायुषम्।
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान्॥ 1-67-75(2948)
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ।
इत्येष सर्वभूतानां महतां मनुजाधिप।
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर॥ 1-67-76(2949)
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति॥ ॥ 1-67-77(2950)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तषष्टितमोऽध्यायः॥ 67 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम्। तत्रादौ स्थाणुसंततिमेवाह एकादशेति। एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः इति पाठान्तरम्। अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा॥ 1-67-5 बृहस्पतिरुचथ्यश्चेति पाठान्तरम्॥ 1-67-8 ईहामृगाः वृकाः॥ 1-67-9 पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः॥ 1-67-16 नयने ज्ञापने॥ 1-67-17 नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः। विधानतः विधानार्थमभवन्। पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात्। तस्य पितामहस्य पुत्रो दक्षः तदङ्गुष्ठाज्जातत्वात्। तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ जाता इत्यर्थः। वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः॥ 1-67-19 धूम्राय इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात्। अन्या एता न दक्षकन्या इति वा॥ 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात्॥ 1-67-35 बडवा अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात्॥ 1-67-37 त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च॥ 1-67-43 योगाचार्य इति। चापी व्यस्तौ। सुराणामपि च गुरुरिति संबन्धः। देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा दैत्यानामप्याचार्योऽभवदित्यर्थः॥ 1-67-73 पिण्डफलान्सप्त। खर्जूरतालहिंताला ताली खर्जूरिका तथा। गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान्। इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः॥ सप्तषष्टितमोऽध्यायः॥ 67 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.